Thursday 9 July 2015

संस्कृत वाक्य अभ्यासः

शिक्षिका - तव कति नेत्राणि सन्ति ?
= तुम्हारी कितनी आँखें हैं ?
( तव शरीरे = तुम्हारे शरीर में )
छात्रः - मम द्वे नेत्रे स्तः ।
= मेरी दो आँखें हैं ।
शिक्षिका - तव कति कर्णा: सन्ति ?
= तुम्हारे कितने कान हैं ?
छात्रः - मम द्वौ कर्णौ स्तः
= मेरे दो कान हैं ।
शिक्षिका - तव कति हस्ताः सन्ति ?
= तुम्हारे कितने हाथ हैं ?
छात्रः - मम द्वौ हस्तौ स्तः
= मेरे दो हाथ हैं
शिक्षिका - तव कति पादाः सन्ति ?
= तुम्हारे कितने पैर हैं ?
छात्रः - मम द्वौ पादौ स्तः
= मेरे दो पैर हैं ।
शिक्षिका - तव हस्तयोः कति अङ्गुल्यः सन्ति
= तुम्हारे हाथ में कितनी उँगलियाँ हैं ।
छात्रः - मम द्वयोः हस्तयोः दश अङ्गुल्यः सन्ति
= मेरे दोनों हाथों में दस उँगलियाँ हैं ।
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
संस्कृत वाक्य अभ्यासः
* भोजनं देहि = भोजन दो ।
∆ ददामि = दे रही हूँ ।
* ऊष्णम् ऊष्णं मा देहि
= गरम गरम मत देना ।
∆ तर्हि शीतलं कृत्वा ददामि वा ?
= तो फिर ठण्डा कर के दूँ क्या ?
* शीघ्रं देहि = जल्दी से दो ।
∆ ओहो , शीघ्रं देहि , ऊष्णं मा देहि
= ओहो ,जल्दी से दो , गरम मत दो
∆ तर्हि कीदृशं भोजनम् इच्छति भवान् ?
= तो फिर किस तरह का भोजन चाहते हैं आप ?
* दधि-प्रथुकं देहि
= दही-चूड़ा दे दो ।
* शीघ्रं निर्मीयते
= जल्दी बनता है ।
* केवलं निमेषद्वयम्
= केवल दो मिनट ।
∆ ओह , एतद् अस्ति भारतीय-मैगी
= ओह , ये है भारतीय मैगी ।
* निर्माणे सरलम् , भक्षणे अपि सरलम्
= बनाने में भी आसान और खाने में भी आसान
∆ सुपाच्यम् अपि भवति
= सुपाच्य भी होता है ।





No comments:

Post a Comment