Friday 17 July 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सः त्वत् ज्येष्ठः अस्ति
= वह तुमसे बड़ा है ।
त्वं तान् वन्दस्व
= तुम उन्हें वन्दन करो ।
एषः स्वामी जी अस्ति
= ये स्वामी जी हैं
तान् अहं वन्दे
= उनको मैं वन्दन करता हूँ ।
एषा वृद्धा महिला अस्ति
= ये वृद्ध महिला है ।
सा वृद्धा चलितुं न शक्नोति
= वह वृद्धा चल नहीं सकती है ।
सुदेशः तस्याः सेवां करोति
= सुदेश उसकी सेवा करता है ।
एषः अस्माकं गुरुः अस्ति
= ये हमारे गुरु हैं ।
एषः अस्मासु ज्येष्ठः अस्ति
= ये हमारे बड़े हैं ।
एतस्य आज्ञाम् वयं पालयामः ।
= इनकी आज्ञा का पालन हम करते हैं
[ अभिवादन शीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुः विद्या यशो बलम् ।।
अर्थात् - अभिवादन (नम्रता) और शील के साथ जो बड़े लोगों की सेवा करते हैं उनकी चार चीजें बढ़ती हैं - आयु विद्या यश और बल ]
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
तेन मम यानं भग्नीकृतम्
= उसने मेरा वाहन तोड़ दिया
मम यानम् एकस्मिन् कोणे एव आसीत्
= मेरा वाहन एक कोने में ही था ।
सः तस्य यानं वेगेन चालितवान्
= उसने अपना वाहन तेज चलाया ।
अधुना अहं किं कर्वाणि ?
= अब मैं क्या करूँ ?
सः तु समीकरणार्थम् धनम् अपि न अददत्
= उसने तो रिपेयरिंग के लिये पैसे भी नहीं दिये ।
सः तु गतः
= वह तो चला गया ।
अहं तं न क्षमिष्ये
= मैं उसे क्षमा नहीं करूँगा ।
सः पुनः तु आगमिष्यति
= वह फिर से तो आएगा ।
अहं तस्मात् धनं स्वीकरिष्यामि
= मैं उससे पैसे लूँगा ।
( मम भ्राता अवदत्
= मेरे भैया बोले )
त्वं तं क्षमस्व
= तुम उसे क्षमा कर दो
[ क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते ।
शान्तिखङ्गः करे यस्य किं करिष्यति दुर्जनः ।।
अर्थात् - क्षमा संसार में सबको वश में करने वाली है , क्षमा से क्या नहीं सिद्ध किया जा सकता है ?
शान्तिरूपी तलवार जिसके हाथ में है उसका दुष्ट मनुष्य क्या बिगाड़ सकेगा ]


No comments:

Post a Comment